|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.233. अध्यायः 233
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति आपदि शोकत्यागपूर्वकं भगवदनुचिन्तनादेः श्रेयः साधनताप्रतिपादकशक्रनमुचिसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
`युधिष्ठिर उवाच। 12-233-0x(6200)(74612)
व्यसनेषु निमग्नस्य किं श्रेयस्तद्ब्रवीहि मे।
भूय एव महाबाहो स्थित्यर्थं तं ब्रवीहि मे॥' 12-233-1(74613)
भीष्म उवाच। 12-233-2x(6201)
अत्रैवोदाहन्तीममितिहासं पुरातनम्।
शतक्रतोश्च संवादं नमुचेश्च युधिष्ठिर॥ 12-233-2(74614)
श्रिया विहीनमासीनमक्षोभ्यमिव सागरम्।
भवाभवज्ञं भूतानामित्युवाच पुरंदरः॥ 12-233-3(74615)
बद्धः पाशैश्च्युतः स्थानाद्द्विपतां वशमागतः।
श्रिया विहीनो नमुचे शोचस्याहो न शोचसि॥ 12-233-4(74616)
नमुचिरुवाच। 12-233-5x(6202)
अनवाप्यं च शोकेन शरीरं चोपशुष्यति।
अमित्राश्च प्रहृष्यन्ति शोके नास्ति सहायता।
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत्॥ 12-233-5(74617)
संतापाद्धश्यते रूपं संतापाद्धश्यते श्रियः।
संतापाद्धश्यते चायुर्धर्मश्चैव सुरेश्वर॥ 12-233-6(74618)
विनीय खलु तद्दुःखमागतं वै मनस्सुखम्।
ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता॥ 12-233-7(74619)
यथायथा हि पुरुषः कल्याणे कुरुते मनः।
तथैवास्य प्रसिध्यन्ति सर्वार्था नात्र संशयः॥ 12-233-8(74620)
एकः शास्ता न द्वितीयोऽस्ति शास्ता
गर्भे शयानं पुरुषं शास्ति शास्ता।
तेनानुयुक्तः प्रवणादिवोदकं
यथा नियुक्तोऽस्मि तथा भवामि॥ 12-233-9(74621)
भावाभावावजिनानन्गरीयो
जानामि श्रेयो न तु तत्करोमि।
आशासु हर्म्यासु हृदासु कुर्वन्
यथा नियुक्तोऽस्मि तथा वहामि॥ 12-233-10(74622)
यथायथाऽस्म प्राप्तव्यं प्राप्नोत्येव तथातथा।
भवितव्यं यथा यच्च भवत्येव तथातथा॥ 12-233-11(74623)
यत्रयत्रैव संयुक्तो धात्रा गर्भे पुनः पुनः।
तत्रतत्रैव वसति न यत्र स्वयमिच्छति॥ 12-233-12(74624)
भावो योऽयमनुप्राप्तो भवितव्यमिदं मम।
इति यस्य सदा भावो न स शोचेत्कदाचन॥ 12-233-13(74625)
पर्यायैर्हन्यमानानामभिषङ्गो न विद्यते।
दुःखमेतत्तु यद्द्वेष्टा कर्ताऽहमिति मन्यते॥ 12-233-14(74626)
ऋषींश्च देवांश्च महासुरांश्च
त्रैविद्यवृद्धांश्च वने मुनींश्च।
का नापदो नोपनमन्ति लोके
परावरज्ञास्तु न संभ्रमन्ति॥ 12-233-15(74627)
न पण्डितः क्रुद्ध्यति नाभिषज्यते
न चापि संसीदति न प्रहृष्यति।
न चार्थकृच्छ्रव्यसनेषु शोचते
स्थितः प्रकृत्या हिमवानिवाचलः॥ 12-233-16(74628)
यमर्थसिद्धिः परमा न हर्षये
त्तथैव काले व्यसनं न मोहयेत्।
सुखं च दुःखं च तथैव मध्यमं
निषेवते यः स धुरधरो नरः॥ 12-233-17(74629)
यांयामवस्थां पुरुषोऽधिगच्छे
त्तस्यां रमेतापरितप्यमानः।
एवं प्रवृद्धं प्रणुदन्मनोजं
संतापनीलं सकलं शरीरात्॥ 12-233-18(74630)
न तत्सदः सत्परिषत्सभा च
सा प्राप्य यां न कुरुते सदा भयम्।
धर्मतत्त्वमवगाह्य बुद्धिमा
न्योऽभ्युपैति स धुरंधरः पुमान्॥ 12-233-19(74631)
प्राज्ञस्य कर्माणि दुरन्वयानि
न वै प्राज्ञो मुह्यति मोहकाले।
स्थानाच्च्युतश्चेन्न मुमोह गौतम
स्तावत्कृच्छ्रामापदं प्राप्य वृद्धः॥ 12-233-20(74632)
न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण च।
[न शीलेन न वृत्तेन तथा नैवार्थसंपदा।]
अलभ्यं लभते मर्त्यस्तत्र का परिदेवना॥ 12-233-21(74633)
यदेवमभिजातस्य धातारो विदधुः पुरा।
तदेवानुभविष्यामि किं मे मृत्युः करिष्यति॥ 12-233-22(74634)
लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति।
प्राप्तव्यान्येव चाप्नोति दुःखानि च सुखानि च॥ 12-233-23(74635)
एतद्विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः।
कुशली सर्वदुःखेषु स वै सर्वधनी नरः॥ ॥ 12-233-24(74636)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः॥ 233॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-233-3 भवाभवज्ञमुत्पत्तिप्रलयज्ञम्॥ 12-233-5 सहायता शोकस्य दुःखापनोदे हेतुत्वं नास्तीत्यर्थः॥ 12-233-6 श्रियः सकाशात्॥ 12-233-7 विनीय निरस्य। हृद्यं हृत्स्थम्। कल्याणं मोक्षम्॥ 12-233-9 प्रवणान्निम्रदेशात्॥ 12-233-18 प्रणुदन् दूरीकुर्वन्। सन्तापमायाराकरं शरीरात् इति झ. पाठः॥ 12-233-19 श्रौतस्मार्तलौकिकन्यायान्यायविवेचका जनसमाजाः सदः पर्षत्सभाख्याः। संसत्सदः परिषदः सभासदः सम्प्राप्य यो न कुरुते सदा भयम्। इति ट. थ. ध. पाठः॥ 12-233-20 न मुमोह चोत्तमः इति ध. पाठः॥ 12-233-24 कुशलः सुखदुःखेषु इति ट. थ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|